देवी॑राप ए॒ष वो॒ गर्भ॒स्तᳪ सुप्री॑त॒ᳪ सुभृ॑तं बिभृत । देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छं च॒ वक्ष्व॒ परि॑ च॒ वक्ष्व॑
devī́r ā́pa eṣá vo gárbhas táṃ su-prī́taṃ su-bhṛ́taṃ bibhṛta | deva sóma eṣá te lókas tásmiñ cháṃ ca váxva pári ca váxva ||
O göttliche Wasser, dies ist euer Embryo: tragt ihn, wohlgesinnt, wohlgetragen. O Gott Soma, dies ist deine Welt; darin trage Heil, und trage ringsum Schutz.
देवीः । आपः । एषः । वः । गर्भः । तम् । सु-प्रीतम् । सु-भृतम् । बिभृत । देव । सोम । एषः । ते । लोकः । तस्मिन् । शम् । च । वक्ष्व । परि । च । वक्ष्व ।