तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्येष्ठ॒ता॑तिं बर्हि॒षद॑ᳪ स्व॒र्विद॑म् । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वै॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्ट॒: शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्र ण॑य॒न्त्वना॑धृष्टाऽसि
táṃ pratnáthā pū́rvathā viśváthemáthā jyeṣṭhatā́tiṃ barhiṣádaṃ svarvídam | pratīcīnáṃ vṛjánaṃ dohase dhúnim āśúṃ jáyantam ánu yā́su várdhase | upayā́magṛhīto’si śaṇḍā́ya tvā́ eṣá te yónir vīrátāṃ pā́hy apamṛṣṭáḥ śaṇḍó devā́s tvā́ śukrapā́ḥ prá nayantv anādhṛṣṭo’si
Ihn — wie von alters her, wie in früherer Zeit, auf jede Weise auch jetzt,—die vorrangige Macht, den auf dem Barhis Sitzenden, den Himmelsfinder,—herwärts gewandt, die gewinnende Kraft zum Melken; den Erschütterer, den Schnellen, den Siegreichen, dem du auf jenen (Bahnen) nach wächst. Mit dem Upayāma ergriffen bist du; für Śaṇḍa nehme ich dich. Dies ist dein Schoß. Hüte die Manneskraft; unbefleckt: Śaṇḍa. Die Götter, die das Helle (śukra) trinken, mögen dich voranführen; unbezwingbar bist du.
तम् । प्रत्नथा । पूर्वथा । विश्वथा । इमथा । ज्येष्ठतातिम् । बर्हिषदम् । स्वर्विदम् । प्रतीचीनम् । वृजनम् । दोहसे । धुनिम् । आशुम् । जयन्तम् । अनु । यासु । वर्धसे । उपयामगृहीतः । असि । शण्डाय । त्वा । एषः । ते । योनिः । वीरताम् । पाहि । अपमृष्टः । शण्डः । देवाः । त्वा । शुक्रपाः । प्र । नयन्तु । अनाधृष्टः । असि ।