विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते । दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान् पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये । मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम्
víśvāsāṃ bhuvā́ṃ pate víśvasya mánasas pate víśvasya vácasas pate sárvasya vácasas pate | devaśrúttvaṃ deva gharmá devó devā́n pāhy átrá prā́vīr ánu vāṃ devávītaye | mádhu mā́dhvībh्यāṃ mádhu mā́dhūcībh्यām
Herr aller Welten, Herr des Geistes von allem, Herr der Rede von allem, Herr jeder Rede! Sei von den Göttern vernommen, o Gott, o Gharma. Als Gott beschütze hier die Götter; du hast beschützt, euch beiden folgend, zum Genuss der Götter. Süß mit den honiggleichen (Tränken), süß mit den süßströmenden.
विश्वा॑साम् । भुवाम् । पते । विश्व॑स्य । मनसः । पते । विश्व॑स्य । वचसः । पते । सर्व॑स्य । वचसः । पते । दे॒व॒श्रुत्त्वम् । दे॒व॒ । घ॒र्म॒ । दे॒वः । दे॒वान् । पा॒हि॒ । अत्र॑ । प्रावीः । अनु॑ । वाम् । दे॒ववी॑तये । मधु॑ । माध्वी॑भ्याम् । मधु॑ । माधू॑चीभ्याम् ।