ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः । वाच॑म॒स्मे नि य॑च्छ देवा॒युव॑म्
dhartā́ divó ví bhāti tápasā pr̥thivyā́ṃ dhartā́ devó devā́nām ámartyas tapojā́ḥ | vā́cam asmē ní yaccha deva ā́yuvam
Der Träger des Himmels leuchtet hervor; durch Tapas auf Erden der Träger — der Gott der Götter, unsterblich, aus Glut geboren (tapojā). Festige in uns die Rede, o Gott, und die Lebenskraft (āyus).
ध॒र्ता । दि॒वः । वि । भा॑ति । तप॑सा । पृ॒थि॒व्याम् । ध॒र्ता । दे॒वः । दे॒वाना॑म् । अम॑र्त्यः । त॒पः॒जाः । वाच॑म् । अ॒स्मे इति॑ । नि । य॒च्छ॒ । दे॒व॒ । आ॒युव॑म् ।