अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा॒ वृषणा मनी॒षाम् । अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
ápnasvatīm aśvinā vā́cam asmē kr̥táṃ no dasrā́ vŕ̥ṣaṇā manīṣā́m | adyū́tye’vase ní hvaye vāṃ vr̥dhé ca no bhavataṃ vā́jasātau ||
Schafft uns, o Aśvins, eine Rede, reich an gelingender Vollbringung; schafft uns, o Dasras, ihr kraftvollen Stiere, weise Einsicht. Um leuchtende Hilfe rufe ich euch herab; und seid uns zum Wachstum und zum Gewinn des Kraftpreises.
अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृषणा । मनी॒षाम् । अ॒द्यू॒त्ये । अव॑से । नि । ह्व॑ये । वाम् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑-सातौ ॥