त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृध॑ः । अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥
tvám indra pratū́rtiṣv abhí víśvā asi spṛ́dhaḥ | aśastihā́ janitā́ viśvatū́r asi tváṃ tū́rya taruṣyató ||
Du, o Indra, stehst in den Anstürmen gegen alle Widerstreite; du bist der Vernichter der Schmähung, der Erzeuger, allbezwingend. Du bist sieghaft für den, der vorandrängt, der nach dem Sieg strebt.
त्वम् । इन्द्र । प्र-तूर्तिषु । अभि । विश्वाः । असि । स्पृधः । अशस्ति-हा । जनिता । विश्व-तूर् । असि । त्वम् । तूर्यः । तरुष्यतः ।