आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न्
ā́ kṛṣṇéna rájasā vártamāno niveśáyann amṛ́taṃ mártyaṃ ca | hiraṇyáyena savitā́ rathénā devó yāti bhúvanāni páśyan
Fortschreitend durch den dunklen Staub (rajas), setzt er Unsterbliches und Sterbliches ein. Auf goldenem Wagen fährt Savitar, der Gott, dahin und schaut die Welten.
आ । कृष्णेन । रजसा । वर्तमानः । निवेशयन् । अमृतम् । मर्त्यम् । च । हिरण्ययेन । सविता । रथेन । देवः । याति । भुवनानि । पश्यन्