अ॒ग्नये॒ पीवा॑नं पृथि॒व्यै पी॑ठस॒र्पिणं॑ वा॒यवे॑ चाण्डा॒लम॒न्तरि॑क्षाय वᳪशन॒र्तिनं॑ दि॒वे ख॑ल॒तिᳪ सूर्या॑य हर्य॒क्षं नक्ष॑त्रेभ्यः किर्मि॒रं च॒न्द्रम॑से कि॒लास॒मह्ने॑ शु॒क्लं पि॑ङ्गा॒क्षᳪ रात्र्यै॑ कृ॒ष्णं पि॑ङ्गा॒क्षम्
agnáye pīvā́naṃ pṛthivyái pīṭhasarpíṇaṃ vāyáve cāṇḍā́lam antárikṣāya vaṃśanartínaṃ divé khalatíṃ sū́ryāya haryakṣáṃ nákṣatrebhyaḥ kirmiráṃ candrámasé kilā́sám áhne śukláṃ piṅgākṣáṃ rā́tryai kṛṣṇáṃ piṅgākṣám
Agni: den Stämmigen; der Erde: den Rückenkriecher; Vāyu: den Caṇḍāla; dem Luftraum: den Bambustänzer; dem Himmel: den Kahlköpfigen; der Sonne: den Gelbäugigen; den Sternen: den Gesprenkelten; dem Mond: den leprös-Weißen; dem Tag: den Weißen, Gelbäugigen; der Nacht: den Schwarzen, Gelbäugigen.
अग्नये । पीवानम् । पृथिव्यै । पीठ-सर्पिणम् । वायवे । चाण्डालम् । अन्तरिक्षाय । वंश-नर्तिनम् । दिवे । खलतिम् । सूर्याय । हरि-अक्षम् । नक्षत्रेभ्यः । किर्मिरम् । चन्द्रमसे । किलासम् । अह्ने । शुक्लम् । पिङ्ग-अक्षम् । रात्र्यै । कृष्णम् । पिङ्ग-अक्षम्