तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व । मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन् दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑:
tanū́napāt pathá ṛtásya yā́nān mádhvā samañján svádayā sujihva | mánmāni dhībhír utá yajñám ṛ́ndhan devatrā́ ca kr̥ṇuhy adhvaráṃ naḥ
O Tanūnapāt, auf den Pfaden des ṛta, die Wege mit Süße salbend, du Schönzüngiger, mache sie wohlschmeckend. Mit unseren frommen Gedanken und Einsichten fördere das Opfer und richte auch unseren Adhvára‑Dienst götterwärts.
तनू॑नपात् । प॒थः । ऋ॒तस्य॒ । याना॑न् । मध्वा॑ । सम्-अ॒ञ्जन् । स्व॑दया । सु-जिह्व । मन्मा॑नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॑व॒त्रा । च॑ । कृणुहि । अ॒ध्व॒रम् । नः