आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पत॒ङ्गम् । शिरो॑ अपश्यं प॒थिभि॑: सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि
ātmā́naṃ te mánasārā́d ajānām ávo divā́ patáyantaṃ patáṅgam | śíro apaśyaṃ pathíbhiḥ sugébhiḥ aréṇubhir jéhamānaṃ patatrí
Mit dem Geist erkannte ich aus der Ferne dein eigenes Wesen—den Fliegenden, der am Tage im Himmel dahinfliegt. Ich sah dein Haupt: den Geflügelten, der auf guten Pfaden eilt, staublos, schnell sich regend, den Flatternden.
आत्मानम् । ते । मनसा । आरात् । अजानाम् । अवः । दिवा । पतयन्तम् । पतङ्गम् । शिरः । अपश्यम् । पथिभिः । सुगेभिः । अरेणुभिः । जेहमानम् । पतत्रि