होता॑ यक्ष॒द्व्यच॑स्वतीः सुप्राय॒णा ऋ॑ता॒वृधो॒ द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑र्ब्र॒ह्माण॒मिन्द्रं॑ वयो॒धस॑म् । प॒ङ्क्तिं छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाहं॒ गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣad vyácasvatīḥ suprāyaṇā́ ṛtāvṛ́dho dvā́ro devī́r hiraṇyáyīr bráhmāṇam índraṃ vayodhásam | paṅktíṃ chánda ihéndriyáṃ turyavāháṃ gā́ṃ váyo dádhad vyántv ā́jyasya hótar yája
Der Hotṛ verehre die weithin sich ausbreitenden, wohlgeleiteten, das ṛta mehrenden Tore, die goldenen Göttinnen, (damit sie einlassen) Indra, den Brahman, den Spender der Lebenskraft. Paṅkti ist das Metrum; hier ist Indras Macht: Kühe und Kraft verleihend, mögen sie sich für das Ghee öffnen; o Hotṛ, opfere!
होता । यक्षत् । व्यचस्वतीः । सुप्रायणाः । ऋतावृधः । द्वारः । देवीः । हिरण्ययीः । ब्रह्माणम् । इन्द्रम् । वयोधसम् । पङ्क्तिम् । छन्दः । इह । इन्द्रियम् । तुर्यवाहम् । गाम् । वयः । दधत् । व्यन्तु । आज्यस्य । होतः । यज