यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
yáḥ prāṇató nimíṣato mahitváika íd rājā́ jágato babhū́va | yá ī́śe asyá dvipádaś cátuṣpadaḥ kásmai devā́ya havíṣā vidhema
Er, der durch seine Größe der einzige König alles dessen wurde, was atmet und blinzelt; der über diese Welt der Zweifüßigen und Vierfüßigen herrscht — welchem Gott sollen wir Verehrung darbringen mit der Opfergabe?
यः । प्रा॒ण॒तः । नि॒मि॒ष॒तः । म॒हि॒त्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ । यः । ईशे॑ । अ॒स्य । द्वि॒पदः॑ । चतु॑ष्पदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म