षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमा॑: स॒मिधो॑ ह ति॒स्रः । य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑र ऋतु॒शो य॑जन्ति
ṣáḍ asya viṣṭhā́ḥ śatám akṣárāṇy aśītír homā́ḥ samídho ha tisráḥ | yajñásya te vidáthā prá bravīmi saptá hotā́ra ṛtuśó yajanti
Sechs sind seine Standstätten; hundert sind seine Silben; achtzig seine Opfergaben; seine Anzündhölzer sind wahrlich drei. Die Satzungen des Opfers verkünde ich dir: Sieben Hotṛs bringen, der Ordnung der Jahreszeiten gemäß, die Verehrung dar.
षट् । अस्य । विष्ठाः । शतम् । अक्षराणि । अशीतिः । होमाः । समिधः । ह । तिस्रः । यज्ञस्य । ते । विदथा । प्र । ब्रवीमि । सप्त । होतारः । ऋतु-शः । यजन्ति