वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑ । ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑
vāyúṣ ṭvā pacatáir avatv ásitagrīváś chāgáir nyagródhaś camasáiḥ śálmalir vṛ́ddhyā | eṣá syá rāthyó vṛ́ṣā paḍbhíś catúrbhir íd agan bráhmā kṛ́ṣṇaś ca no 'vatu námo 'gnáye
Vāyu möge dich schützen mit den Kochern; der schwarzhalsige (Bock) mit den Ziegen; der Nyagrodha mit den Schalen; der Śalmali mit dem Zuwachs. Dieser Wagen‑Stier ist mit vier Füßen dahingegangen; auch der schwarze Brahman möge uns schützen. Verehrung dem Agni.
वायुः । त्वा । पचता । इरवत् । असित-ग्रीवः । छागैः । न्यग्रोधः । चमसैः । शल्मलिः । वृद्ध्या । एषः । स्यः । राथ्यः । वृषा । पड्भिः । चतुर्भिः । इत् । अगन् । ब्रह्मा । कृष्णः । च । नः । अवतु । नमः । अग्नये ।