यो भू॒ताना॒मधि॑पति॒र्यस्मिँ॑ल्लो॒का अधि॑ श्रि॒ताः । य ईशे॑ मह॒तो म॒हाँस्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वाम॒हम्
yó bhūtā́nām ádhipatir yásmiṃl lokā́ ádhi śritā́ḥ | yá ī́śe maható mahā́ṃs téna gṛhṇāmi tvā́m aháṃ máyī gṛhṇāmi tvā́m ahám ||
Er, der Herr der Wesen ist, in dem die Welten gegründet sind, der herrscht, groß unter den Großen — damit ergreife ich dich; in mir ergreife ich dich, ja ich.
यः । भू॒ता॒ना॒म् । अधि॑-पति॑ः । यस्मि॑न् । लो॒काः । अधि॑ । श्रि॒ताः । यः । ईशे॑ । मह॒तः । म॒हान् । तेन॑ । गृह्णामि । त्वाम् । अहम् । मयि॑ । गृह्णामि । त्वाम् । अहम् ।