अवि॒र्न मे॒षो न॒सि वी॒र्या॒य प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् । सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान
avír na méṣo nā́si vīryā̀ya prāṇásya pánthā amṛ́to gráhābhyām | sárasvaty upavā́kaiḥ vyānáṃ násyāni bárhir badárair jajāna
Wie ein Mutterschaf, wie ein Widder bist du zur Kraft; der Pfad des Prāṇa ist unsterblich durch die beiden Grahas. Sarasvatī, mit ihren begleitenden Anrufungen, gebar den Vyāna; die Nasenlöcher und das Barhis mit Badara-Früchten brachte sie hervor.
अविः । न । मेषः । न । असि । वीर्याय । प्राणस्य । पन्थाः । अमृतः । ग्रहाभ्याम् । सरस्वती । उपवाकैः । व्यानम् । नस्यानि । बर्हिः । बदरैः । जजान