अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्यां॒ छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ । पक्ष्मा॑णि गो॒धूमै॒: कुव॑लैरु॒तानि॒ पेशो॒ न शु॒क्रमसि॑तं वसाते
aśvíbhyāṃ cákṣur amṛ́taṃ gráhābhyāṃ chāgéna téjo havíṣā śr̥téna | pákṣmāṇi godhū́maiḥ kúvalair utā́ni péśo na śúkram ásitaṃ vasāte
Von den Aśvins ist das Auge, unsterblich; von den beiden Grahas (ist es genommen). Mit dem Bock ist der Glanz, mit der Opfergabe, recht gekocht. Die Wimpern sind mit Weizenkörnern und auch mit Jujuben; als Schmuck werden das Helle und das Dunkle angelegt.
अश्विभ्याम् । चक्षुः । अमृतम् । ग्रहाभ्याम् । छागेन । तेजः । हविषा । शृतेन । पक्ष्माणि । गोधूमैः । कुवलैः । उत । आनि । पेशः । न । शुक्रम् । असितम् । वसाते