उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सᳪ सृ॑जेथाम॒यं च॑ । अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानाश्च सीदत
udbúdhya svāgne práti jāgṛhi tvám iṣṭāpūrté saṃ sṛjethām ayáṃ ca | asmín sadhásthe ádhy uttarásmin víśve devā́ yajámānāś ca sīdata ||
Erwache, o Agni; sei auch du wachsam. Du und Iṣṭa‑Pūrtá möget euch verbinden, und dieser Mann mit ihnen. Auf diesem gemeinsamen Sitz, auf diesem höheren Platz, mögen alle Götter und die Opfernden sich niedersetzen.
उद्बु॑ध्यस्व । अ॒ग्ने॒ । प्रति॑ । जा॒गृ॒हि॒ । त्वम् । इ॒ष्टा॒पू॒र्ते इति॑ । स॒म् । सृ॑जेथाम् । अ॒यम् । च॒ । अ॒स्मिन् । स॒धस्थे॑ । अधि॑ । उ॒त्त॒र॒स्मिन् । वि॒श्वे॑ । दे॒वाः । यज॑मानाः । च॒ । सी॒द॒त॒ ।