अ॒ᳪशुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ᳪशुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
a̱ṃśuś ca me ra̱śmiś ca me’dā̍bhyaś ca me’dhí̍patiś ca ma upā̱ṃśuś ca me’ntaryā̱maś ca ma aindravāya̱vaś ca me maitrāvaru̱ṇaś ca ma āśvi̱naś ca me pratiprasthā̱naś ca me śu̱kraś ca me manthī́ ca me yajñe̍na kalpantām
Mögen mir Aṃśu und Raśmi, der Unbezwingliche und der Herr; Upāṃśu und Antaryāma; der Indra-und-Vāyu-Becher und der Mitra-und-Varuṇa-Becher; der Aśvin-Becher und der Pratiprasthāna; Śukra und Manthin — mögen all diese durch das Opfer recht geordnet sein.
अंशुः च मे । रश्मिः च मे । अदाभ्यः च मे । अधिपतिः च मे । उपांशुः च मे । अन्तर्यामः च मे । ऐन्द्र-वायवः च मे । मैत्रा-वरुणः च मे । आश्विनः च मे । प्रतिप्रस्थानः च मे । शुक्रः च मे । मन्थी च मे । यज्ञेन कल्पन्ताम् ।