प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पुरो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे
prācī́m ánu pradíśaṁ préhi vidvā́n agnér agne puro agnír bhavehá | víśvā ā́śā dī́dyāno ví bhā́hī́ ūrjáṁ no dhehi dvipáde catúṣpade
Geh, o kundiger Agni, der östlichen Richtung folgend, voran; o Agni, sei hier das Feuer, das vorausgeht. Leuchtend strahle in alle Himmelsgegenden; verleihe uns Nahrungskraft, den Zweifüßigen und den Vierfüßigen.
प्राची॑म् । अनु॑ । प्र॒दिश॑म् । प्रेहि॑ । वि॒द्वान् । अ॒ग्नेः । अ॒ग्ने । पु॒रः । अ॒ग्निः । भ॒वे॒ह । विश्वाः॑ । आशाः॑ । दीद्या॑नः । वि । भाः॑ । हि । ऊर्ज॑म् । नः॒ । धे॒हि । द्वि॒पदे॑ । चतु॑ष्पदे