प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ । कᳪस्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑
paró diváḥ pará enā́ pṛthivyā́ḥ paró devébhir ásurair yád ásti | káṃ svíd gárbhaṃ prathamáṃ dadhre ā́po yátra devā́ḥ samápaśyanta pū́rve
Jenseits des Himmels, jenseits dieser Erde, jenseits dessen, was bei Devas und Asuras ist — welchen ersten Keim hielten die Wasser, wo die Götter der Vorzeit ihn gemeinsam erblickten?
परः । दिवः । परः । एना । पृथिव्याः । परः । देवेभिः । असुरैः । यत् । अस्ति । कम्-स्वित् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्-अपश्यन्त । पूर्वे