असौ॒ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: । ये चै॑नᳪ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ᳪ हेड॑ ईमहे
asáu yás tāmró aruṇá utá babhrúḥ sumaṅgálaḥ | yé caínaṃ rudrā́ abhíto dikṣú śritā́ḥ sahasraśó ’váiṣāṃ héḍa īmahe ||
Jener Rudra, der kupferrot ist, rötlich und auch braun‑gelb, höchst heilvoll; und jene Rudras, die zu Tausenden ringsum in den Himmelsrichtungen weilen – wir flehen, dass ihr Zorn von uns weiche.
असौ॒ । यः । ता॒म्रः । अ॒रु॒णः । उ॒त । ब॒भ्रुः । सु॒म॒ङ्गलः॑ । ये । च॒ । ए॒न॒म् । रु॒द्राः । अ॒भितः॑ । दि॒क्षु । श्रि॒ताः । स॒ह॒स्र॒शः । अव॑ । ए॒षा॒म् । हेडः॑ । ई॒म॒हे