आ॒च्छच्छन्द॑: प्र॒च्छच्छन्द॑: सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒यश्छन्दो॑ विवधश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्द॑: स॒ᳪस्तुप्छन्दो॑ ऽनु॒ष्टुप्छन्द॒ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्प॑र्धा॒श्छन्दो॑ विशा॒लं छन्द॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं छन्दो॑ अङ्का॒ङ्कं छन्द॑:
ā́cchaś chándaḥ prá cchaś chándaḥ saṁyáś chándo viyáś chándo bṛháś chándo rathantaráṁ chándo nikā́yaś chándo vivádhaś chándo gíraś chándo bhrájaś chándaḥ saṁstúp chándo ’nuṣṭúp chánda eváś chándo várivaś chándo váyaś chándo vayaskṛ́c chándo víṣpardhāś chándo viśā́laṁ chándaś chadíś chándo dūróhaṇaṁ chándas tandráṁ chándo aṅkā́ṅkaṁ chándaḥ
„Āccha“ ist ein Chandas (Metrum); „Praccha“ ist Chandas; „Saṁya“ ist Chandas; „Viya“ ist Chandas; „Bṛhat“ ist Chandas; „Rathantara“ ist Chandas; „Nikāya“ ist Chandas; „Vivādha“ ist Chandas; „Giras“ ist Chandas; „Bhrajas“ ist Chandas; „Saṁstup“ ist Chandas; „Anuṣṭubh“ ist Chandas; „Evá“ ist Chandas; „Varivas“ ist Chandas; „Vayas“ ist Chandas; „Vayaskṛt“ ist Chandas; „Viṣpardhā“ ist Chandas; „Viśāla“ ist Chandas; „Chadi“ ist Chandas; „Dūrohaṇa“ ist Chandas; „Tandra“ ist Chandas; „Aṅkāṅka“ ist Chandas.
आच्छः । छन्दः । प्रच्छः । छन्दः । संयः । छन्दः । वियः । छन्दः । बृहः । छन्दः । रथन्तरम् । छन्दः । निकायः । छन्दः । विवधः । छन्दः । गिरः । छन्दः । भ्रजः । छन्दः । संस्तुप् । छन्दः । अनुष्टुप् । छन्दः । एवः । छन्दः । वरिवः । छन्दः । वयः । छन्दः । वयस्कृत् । छन्दः । विष्पर्धाः । छन्दः । विशालम् । छन्दः । छदिः । छन्दः । दूरोहणम् । छन्दः । तन्द्रम् । छन्दः । अङ्काङ्कम् । छन्दः