अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒तस्य॒ चक्षु॑र्वैश्वव्यच॒सं व॒र्षाश्चाक्षु॑ष्यो जग॑ती वा॒र्षी जग॑त्या॒ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं ज॒मद॑ग्नि॒रृषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑:
a̱yáṃ pa̱ścā́d-vi̱śvá-vyàcā̱ tasya̱ cákṣur vaiśvavyaca̱saṃ va̱rṣā́ś cākṣu̱ṣyo jágatī vārṣī́ jágatyā̱ ṛ́k-samam ṛ́k-samāc chu̱kráḥ śu̱krāt sa̱ptada̱śaḥ sa̱ptada̱śād vai̱rū̱paṃ ja̱madagni̱r ṛ́ṣiḥ prajāpati-gṛhītayā̱ tváyā̱ cákṣur gṛhṇāmi pra̱jā́bhyaḥ
Dies, im Hinteren (Westen), ist der All-Durchdringende; sein Auge ist das des All-Durchdringenden. Die Regen sind dem Auge zugehörig; Jagatī ist das Regen-Metrum. Aus der Jagatī entstehen Ṛk und Sāman in Einklang; aus Ṛk und Sāman in Einklang der Leuchtende; aus dem Leuchtenden der Siebzehn; aus dem Siebzehn das Vairūpa. Jamadagni ist der Seher (ṛṣi). Mit dir, von Prajāpati ergriffen, ergreife ich das Auge zum Wohl der Nachkommenschaft.
अयम् । पश्चात् । विश्व-व्यचा । तस्य । चक्षुः । वैश्व-व्यचसम् । वर्षाः । चाक्षुष्यः । जगती । वार्षी । जगत्या । ऋक्-समम् । ऋक्-समात् । शुक्रः । शुक्रात् । सप्तदशः । सप्तदशात् । वैरूपम् । जमदग्निः । ऋषिः । प्रजापति-गृहीतया । त्वया । चक्षुः । गृह्णामि । प्रजाभ्यः ।