स॒जूरब्दो॒ अय॑वोभिः स॒जूरु॒षा अरु॑णीभिः । स॒जोष॑साव॒श्विना॒ दᳪसो॑भिः स॒जूः सूर॒ एत॑शेन स॒जूर्वै॑श्वान॒र इड॑या घृ॒तेन॒ स्वाहा॑
sajū́r abdó ayávobhiḥ sajū́r uṣā́ aruṇī́bhiḥ | sajóṣasāv aśvínā dáṃsobhíḥ sajū́ḥ sū́ra etáśena sajū́r vaiśvānará iḍáyā ghṛténa svā́hā
In Eintracht mit dem Jahr, mit seinen Körnern; in Eintracht mit der Morgenröte, mit ihren rötlichen Glanzen; in Eintracht mit der Morgenröte und den Aśvins, mit ihren wunderwirkenden Kräften; in Eintracht mit der Sonne und Etaśa; in Eintracht mit Vaiśvānara — mit Iḍā, mit Ghee: Svāhā!
स॒जूः । अ॒ब्दः । अयवोभिः । स॒जूः । उ॒षाः । अरुणीभिः । स॒जूः । उ॒षसा । अ॒श्विना । दंसोभिः । स॒जूः । सूरः । एतशेन । स॒जूः । वै॒श्वान॒रः । इडया । घृतेन । स्वाहा॑ ।