घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वै॑र्दे॒वैरनु॑मता म॒रुद्भि॑: । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒ऽभ्या व॑वृत्स्व
ghṛténa sītā́ mádhunā sámaj́yatāṃ víśvair deváir ánumatā marúdbhiḥ | ū́rjasvatī páyasā pínvamānāsmā́ntsīte páyasā́’bhyā́ vavṛtsva
Mit Ghee, mit Süße sei die Furche (Sītā) gesalbt, von allen Göttern gebilligt, mit den Maruts. O Sītā, nährkraftvoll, von milchgleicher Fülle anschwellend, wende dich uns zu; umfange uns mit deinem Überfluss.
घृतेन । सीता । मधुना । सम्-अज्यताम् । विश्वैः । देवैः । अनुमता । मरुद्भिः । ऊर्जस्वती । पयसा । पिन्वमाना । अस्मान् । सीते । पयसा । अभि । आ । ववृत्स्व