दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं द्यौरज॑नय॑त्सु॒रेता॑:
dṛśānó rukmá urvyā́ ví adyaut durmárṣam ā́yuḥ śríye rucānáḥ | agnír amṛ́to abhavad váyobhir yád enaṃ dyáur ajanayat surétāḥ ||
Als goldener Glanz erblickt, strahlte er über die weite Erde, leuchtend zur Herrlichkeit, mit unbezwinglichem Leben. Agni wurde unsterblich durch seine Lebenskräfte, als der Himmel, samenreich, ihn zur Geburt brachte.
दृशानः । रुक्मः । उर्व्याः । वि । अद्यौत् । दुर्मर्षम् । आयुः । श्रिये । रुचानः । अग्निः । अमृतः । अभवत् । वयोभिः । यदा । एनम् । द्यौः । अजनयत् । सु-रेताः