सᳪसृ॑ष्टा॒ वसु॑भी रुद्रै॒र्धीरै॑: कर्म॒ण्या मृद॑म् । हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम्
saṃsṛ́ṣṭā vásubhī rudráir dhī́raiḥ karmaṇyā́ mṛ́dam | hástābhyāṃ mṛdvī́ṃ kṛtvā́ sinīvālī́ kṛṇotu tām ||
Zusammengefügt mit den Vasus, mit den Rudras, mit den Weisen – diensttauglicher Lehm. Nachdem sie ihn mit den Händen weich gemacht hat, möge Sinīvālī ihm Gestalt geben.
संसृष्टा । वसुभिः । रुद्रैः । धीरैः । कर्मण्या । मृदम् । हस्ताभ्याम् । मृद्वीम् । कृत्वा । सिनीवाली । कृणोतु । ताम् ।