अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्य॑: । तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः
apó devī́r úpa sṛja mádhumatīr ayakṣmā́ya prajā́bhyaḥ | tāsā́m āsthānā́d új jihatām óṣadhayaḥ supippalā́ḥ
Sende herbei die göttlichen Wasser, honigsüß, für die Nachkommenschaft, zur Befreiung von zehrender Krankheit. Von ihrem bestimmten Standort mögen die Pflanzen hervorsprießen, reich an Früchten.
अ॒पः । दे॒वीः । उप॑ । सृज । मधु॑-मतीः । अ॒य॒क्ष्माय॑ । प्र॒जाभ्य॑ः । तासा॑म् । आ॒स्थाना॑त् । उत् । जि॑हता॒म् । ओष॑धयः । सु॒-पि॒प्प॒लाः ।