Sukta 6.51
मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे । विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥
मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे । विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥
mā va éno anyá-kṛtaṃ bhujema mā tát karma vasavo yát cáyadhve | víśvasya hí kṣáyatha viśva-devāḥ svayáṃ ripús tanvàṃ rirīṣiṣṭa ||
Mögen wir nicht die Schuld tragen, die ein anderer getan hat; noch jene Tat, o Vasus, die ihr (als Folge) aufgehäuft habt. Denn ihr, o Allgötter, seid die Herren und Erhalter von allem; die feindliche Macht selbst verwundet den Verkörperten—schützt uns vor dieser selbstgetriebenen Verletzung.
मा । वः॒ । एनः॑ । अ॒न्यऽकृ॑तम् । भु॒जे॒म॒ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे । विश्व॑स्य । हि । क्षय॑थ । वि॒श्व॒ऽदे॒वाः॒ । स्व॒यम् । रि॒पुः । त॒न्व॑म् । रि॒रि॒षी॒ष्ट॒ ॥मा । वः । एनः । अन्यकृतम् । भुजेम । मा । तत् । कर्म । वसवः । यत् । चयध्वे । विश्वस्य । हि । क्षयथ । विश्वदेवाः । स्वयम् । रिपुः । तन्वम् । रिरिषीष्ट ॥mā | vaḥ | enaḥ | anya-kṛtam | bhujema | mā | tat | karma | vasavaḥ | yat | cayadhve | viśvasya | hi | kṣayatha | viśva-devāḥ | svayam | ripuḥ | tanvam | ririṣīṣṭa