Sukta 1.58
दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः । होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥
द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः । होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥
dádhuṣ ṭvā bhṛ́gavo mā́nuṣeṣv ā́ rayíṃ ná cā́ruṃ su-hávaṃ jánebhyaḥ | hótāram agne átithiṃ váreṇyaṃ mitráṃ ná śévaṃ divyā́ya jánmane ||
Die Bhṛgus haben dich unter den Sterblichen eingesetzt als lieblichen Reichtum, leicht anzurufen für die Völker: o Agni, Hotṛ, der erwählte Gast, gütig wie Mitra, zum göttlichen Geborenwerden in uns.
द॒धुः । त्वा॒ । भृग॑वः । मानु॑षे॒षु । आ । र॒यिम् । न । चारु॑म् । सु॒ऽहव॑म् । जने॑भ्यः । होता॑रम् । अ॒ग्ने॒ । अति॑थिम् । वरे॑ण्यम् । मि॒त्रम् । न । शेव॑म् । दि॒व्याय॑ । जन्म॑ने ॥दधुः । त्वा । भृगवः । मानुषेषु । आ । रयिम् । न । चारुम् । सुहवम् । जनेभ्यः । होतारम् । अग्ने । अतिथिम् । वरेण्यम् । मित्रम् । न । शेवम् । दिव्याय । जन्मने ॥dadhuḥ | tvā | bhṛgavaḥ | mānuṣeṣu | ā | rayim | na | cārum | su-havam | janebhyaḥ | hotāram | agne | atithim | vareṇyam | mitram | na | śevam | divyāya | janmane