Sukta 1.118
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् । पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॑न त्रिच॒क्रेण॑ सु॒वृता या॑तम॒र्वाक् । पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ॥
trivandhuréṇa trivṛ́tā ráthena tricakréṇa suvṛ́tā yā́tam arvā́k | pínvataṁ gā́ jínvatam árvato no vardháyatam aśvinā vīrám asmē ||
Mit eurem dreifach gestützten, dreifach geordneten Wagen, mit drei Rädern, wohl sich wendend, kommt zu uns. Lasst unsere Strahlen der Erkenntnis anschwellen, belebt unsere bewegten Kräfte und mehrt uns die innere Heldenkraft, o Aśvins.
त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृत॑ । रथे॑न । त्रि॒ऽच॒क्रेण॑ । सु॒ऽवृता॑ । आ । या॒त॒म् । अ॒र्वाक् । पिन्व॑तम् । गाः । जिन्व॑तम् । अर्व॑तः । नः॒ । व॒र्धय॑तम् । अ॒श्वि॒ना॒ । वी॒रम् । अ॒स्मे इति॑ ॥त्रिवन्धुरेण । त्रिवृत । रथेन । त्रिचक्रेण । सुवृता । आ । यातम् । अर्वाक् । पिन्वतम् । गाः । जिन्वतम् । अर्वतः । नः । वर्धयतम् । अश्विना । वीरम् । अस्मे इति ॥tri-vandhureṇa | tri-vṛta | rathena | tri-cakreṇa | su-vṛtā | ā | yātam | arvāk | pinvatam | gāḥ | jinvatam | arvataḥ | naḥ | vardhayatam | aśvinā | vīram | asme iti