HomeUpanishadsSitaVerse 30
Previous Verse
Next Verse

Verse 30

Sita

तथा दिशन्त्याभिचारसामान्येन पृथक्पृथक् । एकविंशतिशाखायामृग्वेदः परिकीर्तितः । शतं च नवशाखासु यजुषामेव जन्मनाम् । साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वणः । वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् । स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् । कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषं छन्दः एतानि षडङ्गानि । उपाङ्गमयनं चैव मीमांसान्यायविस्तरः । धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा । निबन्धाः सर्वशाखा च समयाचारसङ्गतिः । धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् । इतिहासपुराणाख्यमुपाङ्गं च प्रकीर्तितम् । वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने । आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिताः । दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः । एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः ॥२४–३१॥

तथा । दिशन्ति । अभिचार-सामान्येन । पृथक्-पृथक् । एकविंशति-शाखायाम् । ऋग्वेदः । परिकीर्तितः । शतम् । च । नव-शाखासु । यजुषाम्-एव । जन्मनाम् । साम्नः । सहस्र-शाखाः । स्युः । पञ्च-शाखाः । अथर्वणः । वैखानस-मतः । तस्मिन् । आदौ । प्रत्यक्ष-दर्शनम् । स्मर्यते । मुनिभिः । नित्यम् । वैखानस-मतः । परम् । कल्पः । व्याकरणम् । शिक्षा । निरुक्तम् । ज्योतिषम् । छन्दः । एतानि । षट्-अङ्गानि । उपाङ्ग-मयनम् । च । एव । मीमांसा-न्याय-विस्तरः । धर्मज्ञ-सेवित-अर्थम् । च । वेद-वेदः । अधिकम् । तथा । निबन्धाः । सर्व-शाखाः । च । समय-आचार-सङ्गतिः । धर्म-शास्त्रम् । महर्षिणाम् । अन्तःकरण-सम्भृतम् । इतिहास-पुराण-आख्यम् । उपाङ्गम् । च । प्रकीर्तितम् । वास्तु-वेदः । धनुः-वेदः । गान्धर्वः । च । तथा । मुने । आयुः-वेदः । च । पञ्च । एते । उप-वेदाः । प्रकीर्तिताः । दण्डः । नीतिः । च । वार्ता । च । विद्या । वायु-जयः । परः । एकविंशति-भेदः । अयम् । स्व-प्रकाशः । प्रकीर्तितः ।

tathā diśanty ābhicāra-sāmānyena pṛthak-pṛthak | ekaviṁśatiśākhāyām ṛgvedaḥ parikīrtitaḥ | śataṁ ca navaśākhāsu yajuṣām eva janmanām | sāmnaḥ sahasraśākhāḥ syuḥ pañcaśākhā atharvaṇaḥ | vaikhānasamataḥ tasminn ādau pratyakṣadarśanam | smaryate munibhir nityaṁ vaikhānasamataḥ param | kalpo vyākaraṇaṁ śikṣā niruktaṁ jyotiṣaṁ chandaḥ etāni ṣaḍaṅgāni | upāṅgamayanaṁ caiva mīmāṁsānyāyavistaraḥ | dharmajñasevitārthaṁ ca vedavedo’dhikaṁ tathā | nibandhāḥ sarvaśākhā ca samayācārasaṅgatiḥ | dharmaśāstraṁ maharṣiṇām antaḥkaraṇasambhṛtam | itihāsapurāṇākhyam upāṅgaṁ ca prakīrtitam | vāstuvedo dhanurvedo gāndharvaś ca tathā mune | āyurvedaś ca pañcaite upavedāḥ prakīrtitāḥ | daṇḍo nītiś ca vārtā ca vidyā vāyujayaḥ paraḥ | ekaviṁśatibhedo’yaṁ svaprakāśaḥ prakīrtitaḥ ||24–31||

এখানে চার বেদের শাখাসংখ্যা, ছয় বেদাঙ্গ, উপাঙ্গের বিস্তার, এবং ধর্মশাস্ত্র, ইতিহাস-পুরাণ ও উপবেদের বিবরণ দেওয়া হয়েছে। ঋগ্বেদের একুশ, যজুর্বেদের একশো নয়, সামবেদের সহস্র এবং অথর্ববেদের পাঁচ শাখা বলা হয়েছে। বৈখানস-মতকে আদিতে প্রত্যক্ষদর্শনরূপ ও পরম বলে মানা হয়েছে। কল্পাদি ছয় বেদাঙ্গ; মীমাংসা-ন্যায়াদি উপাঙ্গ; মহর্ষিদের ধর্মশাস্ত্র অন্তঃকরণে সঞ্চিত; ইতিহাস-পুরাণ উপাঙ্গ। বাস্তু, ধনু, গান্ধর্ব ও আয়ুর্বেদ—এই পাঁচ উপবেদ। দণ্ড, নীতি, বার্তা, বিদ্যা ও পরম বায়ুজয়—একে একুশবিধ স্বপ্রকাশ বিধান বলা হয়েছে॥

Same passage as Sita.28: it enumerates the traditional branches of the four Vedas, the six vedāṅgas, auxiliary disciplines (upāṅgas), dharmaśāstra, itihāsa–purāṇa, the five upavedas, and concludes with a twenty-onefold ‘self-luminous’ schema including vāyujaya (mastery of breath).

Śruti–smṛti framework; śāstra-pramāṇa; dharma as preparatory discipline toward mokṣaAtharvaChandas: Mixed/irregular (later śloka style)