तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमा॑: । तदे॒व शु॒क्रं तद्ब्रह्म॒ ता आप॒: स प्र॒जाप॑तिः
tád evā́gnis tád ādityás tád vāyús tádu candrámāḥ | tád eva śukráṃ tád bráhma tā́ ā́paḥ sá prajā́patiḥ
সেই-ই নিশ্চয় অগ্নি; সেই-ই আদিত্য; সেই-ই বায়ু; সেই-ই চন্দ্র। সেই-ই উজ্জ্বল তেজ (শুক্র); সেই-ই ব্রহ্ম; সেই-ই আপঃ (জলসমূহ); সেই-ই প্রজাপতি।
तत् । एव । अग्निः । तत् । आदित्यः । तत् । वायुः । तत् । उ । चन्द्रमाः । तत् । एव । शुक्रम् । तत् । ब्रह्म । ताः । आपः । सः । प्रजापतिः