इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य॒ कर्णा॑भ्या॒ᳪ श्रोत्र॑म॒मृतं॒ ग्रहा॑भ्याम् । यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त्
índrasya rū́pam ŕ̥ṣabho bálāya kárṇābhyāṃ śrótram amṛ́taṃ gráhābhyām | yávā na bárhir bhrúvi késarāṇi karkándhu jajñé mádhu sārághaṃ múkhāt
ইন্দ্রের রূপ—ঋষভ (বৃষভ)—বলার্থে। দুই কর্ণ দ্বারা শ্রবণ, দুই গ্রহের দ্বারা, অমৃতস্বরূপ। যবের ন্যায় বর্হি; ভ্রূতে কেশর (রোম) আছে। মুখ থেকে মধুমধুর, রসপূর্ণ কর্কন্ধু (বদর) জন্ম নিল।
इन्द्रस्य । रूपम् । ऋषभः । बलाय । कर्णाभ्याम् । श्रोत्रम् । अमृतम् । ग्रहाभ्याम् । यवाः । न । बर्हिः । भ्रुवि । केसराणि । कर्कन्धुः । जज्ञे । मधु । सारघम् । मुखात्