दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धाᳪ स॒त्ये प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑
dṛṣṭvā rūpé vyā̀karot satyānṛté prajāpátiḥ | áśraddhām anṛté’dadhāc chraddhā́ṃ satyé prajāpátiḥ | ṛténá satyám indriyáṃ vipānáṃ śukrám ándhasa índrasyendriyám idáṃ páyo’mṛtáṃ mádhu
দুই রূপ দেখে প্রজাপতি সত্য ও অনৃতের ভেদ করলেন। অশ্রদ্ধা তিনি অনৃতে স্থাপন করলেন; শ্রদ্ধা সত্যে স্থাপন করলেন—প্রজাপতি। ঋত—সত্য—দ্বারা (লভ্য) ইন্দ্রিয়বল: পানযোগ্য পানীয়, উদ্ভিদের উজ্জ্বল সার; এটাই ইন্দ্রের ইন্দ্রিয়বল—এই পয়ঃ, অমৃত, মধুমধুর।
दृ॒ष्ट्वा । रू॒पे इति । वि॒-आक॑रोत् । स॒त्य-अ॑नृ॒ते इति । प्र॒जाप॑तिः । अश्र॑द्धाम् । अनृ॒ते । अ॒द॑धात् । श्र॒द्धाम् । स॒त्ये । प्र॒जाप॑तिः । ऋ॒तेन॑ । स॒त्यम् । इ॒न्द्रि॒यम् । वि॒पान॑म् । शु॒क्रम् । अन्ध॑सः । इन्द्र॑स्य । इ॒न्द्रि॒यम् । इ॒दम् । पयः॑ । अ॒मृत॑म् । मधु॑