त्वम॑ग्न ईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादा॑ः पि॒तृभ्य॑ः स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीᳪषि॑
tvám agna īḍitáḥ kavyavāhanāvā́ḍ havyā́ni surabhī́ṇi kṛtvī́ | prā́dāḥ pitṛ́bhyaḥ svadháyā te ákṣann áddhi tváṃ deva práyatā havī́ṃṣi
হে অগ্নি! তুমি স্তবিত, কব্যবাহন হয়ে সুগন্ধিত করে হব্যসমূহ বহন কর। তুমি স্বধাসহ তা পিতৃগণকে প্রদান করেছ; তাঁরা ভক্ষণ করেছেন। হে দেব! তুমিও যথাবিধি নিবেদিত হবিশ্য ভক্ষণ কর।
त्वम् । अग्ने । ईडितः । कव्य-वाहन । अवाट् । हव्यानि । सुरभीणि । कृत्वि । प्र । अदाः । पितृभ्यः । स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रयता । हवींषि