दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः
devasya tvā savituḥ prásave’śvinoḥ bāhubhyāṃ pūṣṇó hastābhyām | ā dade’dhvarakṛtáṃ devébhya índrasya bāhúr asi dákṣiṇaḥ sahásrabhṛṣṭiḥ śatátejā vāyúr asi tigmatējā dviṣató vadháḥ
দেব সवিতৃ-এর প্রেরণায়, অশ্বিনদের বাহু দ্বারা, পূষণের হস্ত দ্বারা—আমি তোমাকে তুলে নিই, অধ্বর (যজ্ঞ)-এর জন্য প্রস্তুতকৃত, দেবগণের জন্য। তুমি ইন্দ্রের দক্ষিণ বাহু—সহস্রধার, শত-তেজস্বী; তুমি বায়ু—তীক্ষ্ণ-তেজ, দ্বেষীদের বধকারী।
दे॒वस्य॑ । त्वा । सवि॒तुः । प्र॑स॒वे । अ॒श्विनोः॑ । बा॒हुभ्यां॑ । पू॒ष्णः । हस्ता॑भ्याम् । आ । द॑दे । अ॒ध्व॒र॒कृत॑म् । दे॒वेभ्यः॑ । इन्द्र॑स्य । बा॒हुः । अ॑सि । दक्षि॑णः । स॒हस्र॑भृष्टिः । श॒तते॑जाः । वा॒युः । अ॑सि । ति॒ग्मते॑जाः । द्वि॒ष॒तः । व॒धः