Sukta 6.50
आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः । यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥
आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः । यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥
ā́ no rudrásya sū́navo namantām adyá hūtā́so vásavo 'dhṛṣṭāḥ | yad ī́m árbhe mahátī vā hitā́so bā́dhe marúto áhvāma devā́n ||
আজ রুদ্রের সুনবঃ—হূত, অধৃষ্ট বসুগণ—আমাদের দিকে নত হোন। ক্ষুদ্র বিপদে বা মহৎ বিপদে, যখন বাধায় আমরা আক্রান্ত হই, তখন আমরা দেবরূপে মরুতদের সাহায্যের জন্য আহ্বান করি।
आ । नः॒ । रु॒द्रस्य॑ । सू॒नवः॑ । न॒म॒न्ता॒म् । अ॒द्य । हू॒तासः॑ । वस॑वः । अधृ॑ष्टाः । यत् । ई॒म् । अर्भे॑ । म॒ह॒ति । वा॒ । हि॒तासः॑ । बा॒धे । म॒रुतः॑ । अह्वा॑म । दे॒वान् ॥आ । नः । रुद्रस्य । सूनवः । नमन्ताम् । अद्य । हूतासः । वसवः । अधृष्टाः । यत् । ईम् । अर्भे । महति । वा । हितासः । बाधे । मरुतः । अह्वाम । देवान् ॥ā | naḥ | rudrasya | sūnavaḥ | namantām | adya | hūtāsaḥ | vasavaḥ | adhṛṣṭāḥ | yat | īm | arbhe | mahati | vā | hitāsaḥ | bādhe | marutaḥ | ahvāma | devān