Sukta 3.51
यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् । स त्वा ममत्तु सोम्यम् ॥
यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व॑म् । स त्वा॑ ममत्तु सो॒म्यम् ॥
yás te ánu svadhā́m ásat suté ní yaccha tánvam | sá tvā mamat tu sómyam ||
যে তোমার স্বধা (স্ব-নিয়ম/স্বভাব-ধর্ম) অনুসারে নিংড়ানো (সোম)-এ দেহকে সংযত ও স্থির করে—সেই সোম্য (সোম-স্বভাব) আনন্দ তোমাকে প্রমোদিত করুক।
यः । ते॒ । अनु॑ । स्व॒धाम् । अस॑त् । सु॒ते । नि । य॒च्छ॒ । त॒न्व॑म् । सः । त्वा॒ । म॒म॒त्तु॒ । सो॒म्यम् ॥यः । ते । अनु । स्वधाम् । असत् । सुते । नि । यच्छ । तन्वम् । सः । त्वा । ममत्तु । सोम्यम् ॥yaḥ | te | anu | svadhām | asat | sute | ni | yaccha | tanvam | saḥ | tvā | mamattu | somyam