Sukta 10.61
भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः । अग्निर्ह नामोत जातवेदाः श्रुधी नो होतॠतस्य होताध्रुक् ॥
भर्गो॑ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॒॑र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः । अ॒ग्निर्ह॒ नामो॒त जा॒तवे॑दाः श्रु॒धी नो॑ होतॠ॒तस्य॒ होता॒ध्रुक् ॥
bhárgo ha nā́mota yásya devā́ḥ svàrṇa yé triṣadhásthe níṣeduḥ | agnír ha nā́mota jātávedāḥ śrudhī́ no hotṝ́tasya hótā́dhruk ||
‘ভর্গ’ই তাঁর নাম—যাঁর মধ্যে দেবগণ স্বর্ণিম দীপ্ত শক্তির ন্যায় ত্রিবিধ ভিত্তিতে আসন গ্রহণ করেন। ‘অগ্নি’ই তাঁর নাম—জাতবেদাঃ; হে ঋত-এর হোতা, অ-ধ্রুক্ (অপ্রতারক) যজ্ঞ-পুরোহিত, আমাদের প্রার্থনা শ্রবণ করো।
भर्गः॑ । ह॒ । नाम । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ । न । ये । त्रि॒ऽस॒ध॒स्थे । नि॒ऽसे॒दुः । अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तऽवे॑दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य॑ । होता॑ । अ॒ध्रुक् ॥भर्गः । ह । नाम । उत । यस्य । देवाः । स्वः । न । ये । त्रिसधस्थे । निसेदुः । अग्निः । ह । नाम । उत । जातवेदाः । श्रुधि । नः । होतः । ऋतस्य । होता । अध्रुक् ॥bhargaḥ | ha | nāma | uta | yasya | devāḥ | svaḥ | na | ye | tri-sadhasthe | ni-seduḥ | agniḥ | ha | nāma | uta | jāta-vedāḥ | śrudhi | naḥ | hotaḥ | ṛtasya | hotā | adhruk