Sukta 10.25
अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः । अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥
अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः । अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे॑ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ॥
ayáṃ gha sá turó máda índrasya vardhata priyáḥ | ayáṃ kakṣī́vato mahó ví vo máde matíṃ víprasya vardhayad vivákṣase ||
এটাই সেই দ্রুত মদ, যা ইন্দ্রের প্রিয়—যা বৃদ্ধি পায় ও বর্ধিত হয়। এটাই—কক্ষীবানের মহৎ কর্মের জন্য—তোমার মদে তুমি বিপ্র (ঋষি)-এর মতি বৃদ্ধি কর, তাকে পূর্ণ সামর্থ্যে প্রসারিত করে।
अ॒यम् । घ॒ । सः । तु॒रः । मदः॑ । इन्द्र॑स्य । व॒र्ध॒त॒ । प्रि॒यः । अ॒यम् । क॒क्षीव॑तः । म॒हः । वि । वः॒ । मदे॑ । म॒तिम् । विप्र॑स्य । व॒र्ध॒य॒त् । विव॑क्षसे ॥अयम् । घ । सः । तुरः । मदः । इन्द्रस्य । वर्धत । प्रियः । अयम् । कक्षीवतः । महः । वि । वः । मदे । मतिम् । विप्रस्य । वर्धयत् । विवक्षसे ॥ayam | gha | saḥ | turaḥ | madaḥ | indrasya | vardhata | priyaḥ | ayam | kakṣīvataḥ | mahaḥ | vi | vaḥ | made | matim | viprasya | vardhayat | vivakṣase