Sukta 1.123
उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः । स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥
उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नय॑: शुशुचा॒नासो॑ अस्थुः । स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥
úd īratāṃ sūnṛ́tā út púraṃdhīr úd agnáyaḥ śuśucānā́so asthuḥ | spārhā́ vásūni támasāpágūḷhā́viṣ kṛṇvanty uṣáso vibhātī́ḥ ||
সুনৃতা (সত্য-প্রেরণা) উদিত হোক; পুরন্ধি (সমৃদ্ধ বোধ) উদিত হোক; জ্বলন্ত অগ্নিরা তাদের দীপ্তিতে উঠে দাঁড়াক। উষাদের বিভাতি অন্ধকারে গোপন স্পৃহণীয় বসুদের (ধনসম্পদ) প্রকাশ করে।
उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ । स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥उत् । ईरताम् । सूनृताः । उत् । पुरम्धीः । उत् । अग्नयः । शुशुचानासः । अस्थुः । स्पार्हा । वसूनि । तमसा । अपगूळ्हा । आविः । कृण्वन्ति । उषसः । विभातीः ॥ut | īratām | sūnṛtāḥ | ut | puram-dhīḥ | ut | agnayaḥ | śuśucānāsaḥ | asthuḥ | spārhā | vasūni | tamasā | apa-gūḷhā | āviḥ | kṛṇvanti | uṣasaḥ | vi-bhātīḥ