Yogatattva
अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । कीलवो दृषिका लाला स्वेददुर्गन्धतानने ॥
एतानि सर्वथा तस्य न जायन्ते ततः परम् । ततोऽधिकतराभ्यासाद्बलमुत्पद्यते बहु ॥
येन भूचर सिद्धिः स्याद्भूचराणां जये क्षमः । व्याघ्रो वा शरभो व्यापि गजो गवय एव वा ॥
सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः । कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः ॥५७–६०॥
अल्प-मूत्र-पुरीषः । च । स्वल्प-निद्रः । च । जायते । कीलवः । दृषिका । लाला । स्वेद-दुर्गन्धता । आनने ॥
एतानि । सर्वथा । तस्य । न । जायन्ते । ततः । परम् । ततः । अधिकतर-अभ्यासात् । बलम् । उत्पद्यते । बहु ॥
येन । भूचर-सिद्धिः । स्यात् । भूचराणाम् । जये । क्षमः । व्याघ्रः । वा । शरभः । व्यापि । गजः । गवयः । एव । वा ॥
सिंहः । वा । योगिना । तेन । म्रियन्ते । हस्त-ताडिताः । कन्दर्पस्य । यथा । रूपम् । तथा । स्यात् । अपि । योगिनः ॥५७–६०॥
alpamūtrapurīṣaś ca svalpanidraś ca jāyate | kīlavo dṛśikā lālā svedadurgandhatānane ||
etāni sarvathā tasya na jāyante tataḥ param | tato'dhikatarābhyāsād balam utpadyate bahu ||
yena bhūcara-siddhiḥ syād bhūcarāṇāṃ jaye kṣamaḥ | vyāghro vā śarabho vyāpi gajo gavaya eva vā ||
siṃho vā yoginā tena mriyante hasta-tāḍitāḥ | kandarpasya yathā rūpaṃ tathā syād api yoginaḥ ||57–60||
অল্প মূত্ৰ-পুৰীষ আৰু স্বল্প নিদ্ৰা হয়; ফোঁড়া (কীল), দৃষ্টিৰোগ, লালা, ঘাম আৰু মুখত দুৰ্গন্ধো দেখা দিব পাৰে। তাৰ পিছত এইবোৰ তেওঁৰ ক্ষেত্ৰত একেবাৰে জন্মে নাহে। পুনৰ অধিকতৰ অভ্যাসত বহুত বল উৎপন্ন হয়; যাৰ দ্বাৰা ‘ভূচৰ’ সিদ্ধি লাভ হয় আৰু ভূমিত বিচৰণ কৰা জীৱসমূহক জয় কৰাৰ ক্ষমতা জন্মে। বাঘ, শৰভ, নেকুৰা/ভেঁড়িয়া, হাতী, গৱয় (বনৰ গৰু) বা সিংহ—এই সকলো সেই যোগীৰ হাতৰ এক প্ৰহাৰত মৰে। কন্দৰ্প (কামদেৱ) যেনে ৰূপ, তেনে যোগীৰো ৰূপ হয়।
There arise scant urination and excretion, and little sleep; (there may be) boils, eye-disease, saliva, sweating, and foul odor in the mouth. After that, these do not arise for him at all. Then, by still greater practice, much strength is produced—by which the ‘earth-walking’ siddhi occurs, (and) he becomes capable of conquering earth-dwellers. A tiger, or a śarabha, or a wolf, an elephant, or a gavaya (wild ox), or a lion—these are slain by that yogin with a blow of the hand. Like Kāma (Kandarpa) in form, so too the yogin becomes.