Yogatattva
तस्माद्दोषविनाशार्थमुपायं कथयामि ते । योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् ॥ योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि । तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् ॥
तस्मात् । दोष-विनाश-अर्थम् । उपायम् । कथयामि । ते । योग-हीनम् । कथम् । ज्ञानम् । मोक्ष-दम् । भवति । ध्रुवम् । योगः । हि । ज्ञान-हीनः । तु । न । क्षमः । मोक्ष-कर्मणि । तस्मात् । ज्ञानम् । च । योगम् । च । मुमुक्षुः । दृढम् । अभ्यसेत् ।
tasmād doṣavināśārtham upāyaṃ kathayāmi te | yogahīnaṃ kathaṃ jñānaṃ mokṣadaṃ bhavati dhruvam || yogo hi jñānahīnas tu na kṣamo mokṣakarmaṇi | tasmāj jñānaṃ ca yogaṃ ca mumukṣur dṛḍham abhyaset ||
সেয়ে দোষনাশৰ বাবে মই তোমাক উপায় কওঁ। যোগবিহীন জ্ঞান কেনেকৈ নিশ্চিতভাৱে মোক্ষদায়ক হ’ব? জ্ঞানবিহীন যোগো মোক্ষসাধনত সক্ষম নহয়। সেয়ে মুমুক্ষুৱে জ্ঞান আৰু যোগ—দুয়োটাই দৃঢ়ভাৱে অভ্যাস কৰিব লাগে।
Therefore, for the destruction of faults I tell you the means. How can knowledge, devoid of yoga, certainly become a giver of liberation? For yoga, indeed, when devoid of knowledge, is not capable in the work of liberation. Therefore the seeker of liberation should firmly practice both knowledge and yoga.