Yagyavalkya
यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥२३॥
यस्य । स्त्री । तस्य । भोग-इच्छा । निः-स्त्रीकस्य । क्व । भोग-भूः । स्त्रियम् । त्यक्त्वा । जगत् । त्यक्तम् । जगत् । त्यक्त्वा । सुखी । भवेत् ।
yasya strī tasya bhogecchā nistrīkasya kva bhogabhūḥ | striyaṃ tyaktvā jagat tyaktaṃ jagat tyaktvā sukhī bhavet ||23||
যাৰ স্ত্ৰী আছে তাৰ ভোগেচ্ছা থাকে; নিস্ত্ৰীকৰ ভোগৰ আধাৰ ক’ত? স্ত্ৰী ত্যাগ কৰিলে জগত ত্যাগ কৰা হয়; জগত ত্যাগ কৰিলে মানুহ সুখী হয়।
He who has a woman has the desire for enjoyment; for one without a woman, where is the ground for enjoyment? Having abandoned woman, the world is abandoned; having abandoned the world, one becomes happy.