Vajrasuchika
ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् । दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ १॥
ॐ । वज्रसूचीम् । प्रवक्ष्यामि । शास्त्रम् । अज्ञान-भेदनम् । दूषणम् । ज्ञान-हीनानाम् । भूषणम् । ज्ञान-चक्षुषाम् ॥ १॥
oṁ vajrasūcīṁ pravakṣyāmi śāstram ajñānabhedanam | dūṣaṇaṁ jñānahīnānāṁ bhūṣaṇaṁ jñānacakṣuṣām || 1 ||
ওঁ। মই বজ্ৰসূচী প্ৰবচন কৰিম—অজ্ঞানো ভেদ কৰা শাস্ত্ৰ; জ্ঞানহীনসকলৰ বাবে দোষণ, জ্ঞানচক্ষুধাৰীসকলৰ বাবে ভূষণ।
Om. I shall expound the Vajrasūcī, a treatise that pierces ignorance; a reproach to those devoid of knowledge, and an ornament to those who possess the eye of knowledge.