Ishavasya
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥३॥
असुर्याः । नाम । ते । लोकाः । अन्धेन । तमसा । आवृताः । तान् । ते । प्रेत्य । अभिगच्छन्ति । ये । के । च । आत्म-हनः । जनाः ।
asuryā nāma te lokā andhena tamasā 'vṛtāḥ | tāṃs te pretyābhigacchanti ye ke cātma-hano janāḥ ||3||
সেই লোকসমূহ ‘সূৰ্যহীন’ বুলি কোৱা হয়, অন্ধকাৰময় তমসাৰে আৱৃত। যিসকল আত্মহননকাৰী জন, মৃত্যুৰ পিছত তেওঁলোক তাতেই গমন কৰে।
Those worlds are called ‘sunless,’ covered by blinding darkness. To them, after death, go those people who are slayers of the Self.