अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त्तमुज्जे॑षम॒श्विनौ॒ द्व्य॒क्षरेण द्वि॒पदो॑ मनु॒ष्यानुद॑जयतां॒ तानुज्जे॑षं॒ विष्णु॒स्त्र्य॒क्षरेण॒ त्रीँल्लो॒कानुद॑जय॒त्तानुज्जे॑षं॒ᳪ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तानुज्जे॑षम्
agnír ékākṣareṇa prāṇám úd ajayat tám ujjéṣam aśvínau dvy-àkṣareṇa dvipádo manuṣyā́n úd ajayatāṃ tā́n ujjéṣaṃ víṣṇus try-àkṣareṇa trī́ṃl lokā́n úd ajayat tā́n ujjéṣaṃ sómaś cátur-akṣareṇa cátuṣpadaḥ paśū́n úd ajayat tā́n ujjéṣam
অগ্নিয়ে একাক্ষৰে প্ৰাণ জয় কৰিলে—সেইটো মই জয় কৰোঁ। অশ্বিনদ্বয়ে দ্ব্যাক্ষৰে দ্বিপদ মনুষ্য জয় কৰিলে—সিহঁতক মই জয় কৰোঁ। বিষ্ণুৱে ত্ৰ্যাক্ষৰে ত্ৰিলোক জয় কৰিলে—সেই লোকসমূহ মই জয় কৰোঁ। সোমে চতুৰাক্ষৰে চতুষ্পদ পশু জয় কৰিলে—সেই পশুসকল মই জয় কৰোঁ।
अ॒ग्निः । ए॒क-अ॑क्षरेण । प्रा॒णम् । उद॑जयत् । तम् । उ॒ज्जे॑षम् । अ॒श्विनौ॑ । द्वि-अ॒क्षरेण । द्वि॒पदः॑ । मनु॒ष्यान् । उद॑जयताम् । तान् । उ॒ज्जे॑षम् । विष्णुः । त्रि-अ॒क्षरेण । त्रीन् । लो॒कान् । उद॑जयत् । तान् । उ॒ज्जे॑षम् । सोमः । चतु॑र-अ॒क्षरेण । चतु॑ष्पदः । प॒शून् । उद॑जयत् । तान् । उ॒ज्जे॑षम् ।