स॒मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: । य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत्स्वाहा॑
samudré te hṛ́dayam apsv ántaḥ sáṃ tvā viśántv óṣadhīr utā́paḥ | yajñásya tvā yajñapate sū́ktoktau namo-vā́ke vidhéma yát svā́hā ||
সমুদ্ৰত তোমাৰ হৃদয়; জলৰ ভিতৰত। ঔষধিসকল আৰু জলসমূহ একেলগে তোমাত প্ৰবেশ কৰক। হে যজ্ঞপতি, সু-উক্ত স্তোত্ৰে, নমো-বাক্যত, আমি তোমাক বিধিপূৰ্বক সেৱা কৰোঁ—যৎ স্বাহা।
समुद्रे । ते । हृदयम् । अप्सु । अन्तः । सम् । त्वा । विशन्तु । ओषधीः । उत । आपः । यज्ञस्य । त्वा । यज्ञपते । सूक्त-उक्तौ । नमो-वाके । विधेम । यत् । स्वाहा ।